मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ९, ऋक् ५

संहिता

वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नाम् ।
ह॒व्या च॒ मानु॑षाणाम् ॥

पदपाठः

वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । उ॒प॒ऽव॒क्ता । जना॑नाम् ।
ह॒व्या । च॒ । मानु॑षाणाम् ॥

सायणभाष्यम्

अध्वरीयतां यज्ञमिच्छतां मानुषानां मनुसम्बन्धिनां जनानां हव्या च हव्यानि हवींषि हे अग्ने वेषि हि । कामयसे खलु । उपवक्ताध्वर्युप्रभृतीनां सर्वेषां कर्मणामनुज्ञार्थं मां प्रनयेत्यादिरूपस्य वाक्यस्य वक्ता सन् ब्रह्मा चासि । ब्रह्मा त्वो वदति जातविद्याम् । ऋग्वे. १०-७१-११ । इति श्रुतेः । उपवक्ता सर्वेषां कर्मणामवैकल्यार्थमुपद्रष्टा वा सदस्योऽसि । स हि सप्तदशः कर्मणामुपद्रष्टा भवतीत्यापस्तम्बेनोक्तत्वात् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः