वेषीद्व॑स्य दू॒त्यं१॒॑ यस्य॒ जुजो॑षो अध्व॒रम् ।
ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे ॥
वेषि॑ । इत् । ऊं॒ इति॑ । अ॒स्य॒ । दू॒त्य॑म् । यस्य॑ । जुजो॑षः । अ॒ध्व॒रम् ।
ह॒व्यम् । मर्त॑स्य । वोळ्ह॑वे ॥
हे अग्ने त्वं मर्तस्य मनुष्यस्य यस्य यजमानस्याध्वरं यागं हव्यं हविर्वोळ्हवे वोढुम् । वहेर्धातोस्तुमर्थे सेसेनस इति तवेन्प्रत्ययः । ञ्नत्यादिर्नित्यमित्याद्युदात्तत्वम् । जुजोषः सेवेथाः । जुषी प्रीतिसेवनयोः । लेट् । बहुलं छन्दसीति शपः श्लुर्द्विर्भावश्च । लेटोऽडाटावित्यडागमः । अस्य यजमानस्य दूत्यं दूतकर्म वेषीदु । कामयस एव ॥ ६ ॥