मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ९, ऋक् ८

संहिता

परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ अ॑श्नोतु वि॒श्वतः॑ ।
येन॒ रक्ष॑सि दा॒शुषः॑ ॥

पदपाठः

परि॑ । ते॒ । दुः॒ऽदभः॑ । रथः॑ । अ॒स्मान् । अ॒श्नो॒तु॒ । वि॒श्वतः॑ ।
येन॑ । रक्ष॑सि । दा॒शुषः॑ ॥

सायणभाष्यम्

हे अग्ने त्वं येन रथेन विश्वतो विश्वासु सर्वासु दिक्षु गच्छन् दाशुषो हविष्प्रदातॄन्यजमानान्रक्षसि । विघ्नेभ्यः पालयसि । त्वदीयो दूळभो दुर्दभो दुर्हिंसः स रथोऽस्मान्यजमानान् परि परितः सर्वतोऽश्नोतु । व्याप्नोतु । अश्नोतेर्व्यत्ययेन परस्मैपदं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः