मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १०, ऋक् ४

संहिता

आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे॑म ।
प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्मा॑ः ॥

पदपाठः

आ॒भिः । ते॒ । अ॒द्य । गीः॒ऽभिः । गृ॒णन्तः॑ । अग्ने॑ । दाशे॑म ।
प्र । ते॒ । दि॒वः । न । स्त॒न॒य॒न्ति॒ । शुष्माः॑ ॥

सायणभाष्यम्

अद्यास्मिन्दिवसे हे अग्ने आभिर्गीर्भिः स्तुतिरूपाभिर्वाग्भिर्गृणन्तस्त्वां स्तुवन्तो वयमृत्विगादयस्ते तुभ्यम् दाशेम । हवींषि दद्याम । दिवो न सूर्यस्य रश्मय इव ते त्वदीयाः शुष्माः शोधका ज्वालाः प्रस्तनयन्ति । प्रकर्षेण शब्दायन्ते । यद्वा । दिवो न मेघा इव त्वदीया ज्वालाः शब्दायन्ते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०