मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १०, ऋक् ५

संहिता

तव॒ स्वादि॒ष्ठाग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः ।
श्रि॒ये रु॒क्मो न रो॑चत उपा॒के ॥

पदपाठः

तव॑ । स्वादि॑ष्ठा । अग्ने॑ । सम्ऽदृ॑ष्टिः । इ॒दा । चि॒त् । अह्नः॑ । इ॒दा । चि॒त् । अ॒क्तोः ।
श्रि॒ये । रु॒क्मः । न । रो॒च॒ते॒ । उ॒पा॒के ॥

सायणभाष्यम्

हे अग्ने स्वादिष्ठा स्वादुतमा प्रियतमा तव त्वदीया संदृष्टिर्दीप्तिरह्न इदा चित् दिवसस्येदानीं चाक्तोरिदा चित् । अक्तुरिति रात्रिनाम शर्वर्यक्तुरूर्म्येति रात्रिनामसु पाठात् । रात्रेरिदानीं च । अहोरात्र इत्यर्थः । अन्जू व्यक्तिम्रक्षणकान्तिगतिष्वित्यस्माद्धातोः किच्चेत्यौणादिकसूत्रेण तुप्रत्ययः तस्य किद्वद्भावश्च । तितित्रेतीट् प्रतिषेधः । अनिदितामित्युपधानकारलोपः । चोः कुरिति कुत्वम् । रुक्मो नालङ्कार इव श्रिये पदार्थमाश्रयितुमुपाकेऽन्तिके । उपाक इत्यन्तिक नाम आक उपाक इति तन्नामसु पाठात् । रोचते । राजते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०