मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १०, ऋक् ६

संहिता

घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम् ।
तत्ते॑ रु॒क्मो न रो॑चत स्वधावः ॥

पदपाठः

घृ॒तम् । न । पू॒तम् । त॒नूः । अ॒रे॒पाः । शुचि॑ । हिर॑ण्यम् ।
तत् । ते॒ । रु॒क्मः । न । रो॒च॒त॒ । स्व॒धा॒ऽवः॒ ॥

सायणभाष्यम्

हे स्वधावः । स्वधा शब्दोऽन्नवाची । अन्नवन्नग्ने पूतं शोधितं घृतं नाज्यमिव तनूस्त्वदीया मूर्तिररेपाः वापरहिता भवति । शुचि शुद्धं हिरण्यं हितरमणीयं ते त्वदीयं तत्प्रसिद्धं तेजो रुक्मो न भूशणमिव रोचत । रोचते । भासते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०