मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १०, ऋक् ७

संहिता

कृ॒तं चि॒द्धि ष्मा॒ सने॑मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता॑त् ।
इ॒त्था यज॑मानादृतावः ॥

पदपाठः

कृ॒तम् । चि॒त् । हि । स्म॒ । सने॑मि । द्वेषः॑ । अग्ने॑ । इ॒नोषि॑ । मर्ता॑त् ।
इ॒त्था । यज॑मानात् । ऋ॒त॒ऽवः॒ ॥

सायणभाष्यम्

हे ऋतावः सत्यवन्नग्ने कृतं चित् यजमानेन कृतमपि सनेमि चिरन्तनम् । सनेमीति पुराणनाम सनेमि पूर्व्यमिति पुराणनामसु पाठात् । द्वेषः पापं मर्तान्मनुष्याद्यजमानादित्था सत्यम् । इत्थेति सत्यनामैतत् अद्धेत्थेति तन्नामस्नु पाठात् । इनोषिहिस्म । प्रेरयस्येव खलु नाशयसीत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०