मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ११, ऋक् १

संहिता

भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य ।
रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू॑क्षितं दृ॒श आ रू॒पे अन्न॑म् ॥

पदपाठः

भ॒द्रम् । ते॒ । अ॒ग्ने॒ । स॒ह॒सि॒न् । अनी॑कम् । उ॒पा॒के । आ । रो॒च॒ते॒ । सूर्य॑स्य ।
रुश॑त् । दृ॒शे । द॒दृ॒शे॒ । न॒क्त॒ऽया । चि॒त् । अरू॑क्षितम् । दृ॒शे । आ । रू॒पे । अन्न॑म् ॥

सायणभाष्यम्

द्वितीयेऽनुवाक एकादश सूक्तानि । तत्र भद्रं त इति षड्रुचं प्रथमं सूक्तं वामदेवस्यार्षं त्रिष्टुप्छन्दस्कमग्निदेवताकम् । भद्रं षडित्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते विनियुक्ते । तथा च सूत्रितम् । भद्रं ते अग्ने इति सूक्ते । आ. ४-१३ । इति ॥

हे सहसिन् बलवन्नग्ने ते त्वदीयं भद्रं भजनीयमनीकं तेजः सूर्यस्योपाके संइपभूते । दिवस इत्यर्थः । आ रोचते । समन्ताद्दीप्यते । रुशद्रोचमानं दृशे दर्शनीयं तेजो नक्तया चिद्रात्रावपि ददृशे । दृश्यते । आ इत्ययं शब्दश्चेत्यर्थे वर्तते । आ किञ्च अरूक्षितं स्निग्धं दृशे दर्शनीयमन्नां पुरोडाशादिरूपं हवी रूपे रूपवति त्वय्यैत्विगादिभिर्हुतं भवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११