मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ११, ऋक् २

संहिता

वि षा॑ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा॑नः ।
विश्वे॑भि॒र्यद्वा॒वनः॑ शुक्र दे॒वैस्तन्नो॑ रास्व सुमहो॒ भूरि॒ मन्म॑ ॥

पदपाठः

वि । सा॒हि॒ । अ॒ग्ने॒ । गृ॒ण॒ते । म॒नी॒षाम् । खम् । वेप॑सा । तु॒वि॒ऽजा॒त॒ । स्तवा॑नः ।
विश्वे॑भिः । यत् । व॒वनः॑ । शु॒क्र॒ । दे॒वैः । तत् । नः॒ । रा॒स्व॒ । सु॒ऽम॒हः॒ । भूरि॑ । मन्म॑ ॥

सायणभाष्यम्

हे तुविजात मथनेनारणिद्वारा यज्ञादिकर्मसु बहुजन्मन्नग्ने स्तवान ऋत्विगादिभिः स्तूयमानस्त्वं वेपसा यज्ञादिकर्मणा । वेप इति कर्मनामवेषो वेपो विष्टीति कर्मनामसु पाठात् । मनीषां स्तुतिं गृणते कुर्वते यजमानाय खं यजमानप्राप्यस्य पुण्यलोकस्य द्वारं वि षाहि । विष्य । विमुञ्चेतृर्थः । षोऽन्तकर्मणीत्यस्माद्धातोर्लोण्मध्यमपुरुषैकवचनम् । सिप् । दिवादिभ्यः श्यन् । तस्य बहुलं छन्दसीति लुक् । आदेच उपदेशेऽशितीत्यात्वम् । सेर्हिरादेशः । तिङ्ङ तिङ इति निघातः । हे शुक्र दीप्यमानाग्ने त्वं विश्वेभिर्विश्वैः सर्वैः । बहुलं छन्दसीति भिस ऐसभावम् । देवैरिन्द्रादिभिः सह यत्पश्वादिधनं ववनः । यजमानेभ्यः प्रयच्छेः । वनतेर्लेट् । तस्य सिप इतश्च लोप इतीकारलोपः । बहुलं छन्दसिति विकरणस्य श्लुः । श्लाविति द्विर्वचनम् । हलादिशेशः । लेटोऽडाटावित्यडागमः । यद्वृत्तान्नित्यमिति निघाताभावः । हे सुमहः शोभनतेजस्काग्ने भूरि प्रभूतं मन्म मननीयं तद्धनं नोऽस्मभ्यं रास्व । देहि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११