मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ११, ऋक् ४

संहिता

त्वद्वा॒जी वा॑जम्भ॒रो विहा॑या अभिष्टि॒कृज्जा॑यते स॒त्यशु॑ष्मः ।
त्वद्र॒यिर्दे॒वजू॑तो मयो॒भुस्त्वदा॒शुर्जू॑जु॒वाँ अ॑ग्ने॒ अर्वा॑ ॥

पदपाठः

त्वत् । वा॒जी । वा॒ज॒म्ऽभ॒रः । विऽहा॑याः । अ॒भि॒ष्टि॒ऽकृत् । जा॒य॒ते॒ । स॒त्यऽशु॑ष्मः ।
त्वत् । र॒यिः । दे॒वऽजू॑तः । म॒यः॒ऽभुः । त्वत् । आ॒शुः । जू॒जु॒ऽवान् । अ॒ग्ने॒ । अर्वा॑ ॥

सायणभाष्यम्

हे अग्ने वाजी बलवान्वाजम्भरो हविर्लक्षणान्नस्य वाहकः । अग्नेर्वाजम्भर इत्येषा वैदिकी संज्ञा । संज्ञायं भृतॄवृजीति वाजशब्दे कर्मण्य्पपदे खच् प्रत्ययः । अरुर्द्विषदजन्तस्येति मुमागमः । चित इत्यन्तोदात्तत्वम् । विहाया महानभिष्टिकृद्यज्ञकृत् अभ्येषणकृद्वा । सत्यशुष्मः सत्यबलः पुत्रस्त्वत्त्वत्तो जायते । उत्पद्यते । देवजूतो देवैः प्रेरितो मयोभुः सुखप्रदः । मय इति सुखनामैतत् । रयिर्धनं त्वज्जायते । आशुः शीघ्रगामी । अप्रतिहतगमन इत्यर्थः । जूजुवान्वेगेन गच्छन्नर्वाश्वस्त्वद्भवतो जायते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११