मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ११, ऋक् ६

संहिता

आ॒रे अ॒स्मदम॑तिमा॒रे अंह॑ आ॒रे विश्वां॑ दुर्म॒तिं यन्नि॒पासि॑ ।
दो॒षा शि॒वः स॑हसः सूनो अग्ने॒ यं दे॒व आ चि॒त्सच॑से स्व॒स्ति ॥

पदपाठः

आ॒रे । अ॒स्मत् । अम॑तिम् । आ॒रे । अंहः॑ । आ॒रे । विश्वा॑म् । दुः॒ऽम॒तिम् । यत् । नि॒ऽपासि॑ ।
दो॒षा । शि॒वः । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ग्ने॒ । यम् । दे॒वः । आ । चि॒त् । सच॑से । स्व॒स्ति ॥

सायणभाष्यम्

स्व्वस्त्ययन्यामारे अस्मदिति स्वस्तिमतोऽग्नेर्याज्या । सूत्रितं च । आरे अस्मदमतिमारे अंहः । आ. २-०० ॥ इति ॥

हे सहसः सूनो बलस्य पुत्र । मथ्यमानोऽग्निर्मथनकारिणां हि बलेन जायत इत्यग्नेर्बलपुत्रत्वम् । हे अग्ने दोषा रात्रौ शिवः शिवकरो देवो द्योतमानस्त्वं यं यानस्मान् स्वस्त्यविनाशाय आ सचसे । परितः सेवसे । चिदिति पूरणः । यद्यस्मात्कारणान्निपासि । यजमानान्नितरां पालयसि । तेभ्योऽस्मदस्मत्तोऽमतिं पापरुपामशनेच्छामारे दूरे कुरु । अशनाया वै पाप्मामतिः । ऐ. ब्रा. २-२ । इति ब्राह्मणम् । आरे दूरेऽस्मत्तोऽहः पापं कुरु । आरे इति दूरानामैतत् । अस्मत्त आरे दूरे दुर्मतिं दुर्मनस्त्वं कुरु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११