मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १२, ऋक् २

संहिता

इ॒ध्मं यस्ते॑ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी॑क॒मा स॑प॒र्यन् ।
स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य॑न्र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ॥

पदपाठः

इ॒ध्मम् । यः । ते॒ । ज॒भर॑त् । श॒श्र॒मा॒णः । म॒हः । अ॒ग्ने॒ । अनी॑कम् । आ । स॒प॒र्यन् ।
सः । इ॒धा॒नः । प्रति॑ । दो॒षाम् । उ॒षस॑म् । पुष्य॑न् । र॒यिम् । स॒च॒ते॒ । घ्नन् । अ॒मित्रा॑न् ॥

सायणभाष्यम्

हे अग्ने यो यजमानस्ते तुभ्यमिध्मं होमसाधनं समिज्जातं जभरत् । आहरेत् । हृञ् हरणे । लिङर्थे लेट् । तस्य तिप इतश्च लोप इतीकारलोपः । बहुलं छन्दसीति शपः श्लुः । द्विर्वचनादिकार्यम् । लेटोऽडाटावित्यडागमः । हृग्रहोर्भ इति भत्वम् । शश्रमाण इध्माद्याहरणे श्राम्यन्महो महतस्तवानीकम् । आकारश्चार्थे । तेजश्च सपर्यन्परिचरन् यो यजमानो दोषां प्रति रात्रिं लक्षी कृत्योषसं प्रत्युषः कालं च लक्षीकृत्य । कालद्वयेऽपीत्यर्थः । इधान इन्धानस्त्वां दीप्तियुक्तं करोति पुष्यन् प्रजाभिः पशुभिश्च पुष्तः सन् स यजमानोऽमित्रान् शत्रुन् घ्नन्हिंसन्रयिं धनं सचते । सेवते । सर्वदा पश्वादिधनसमृद्धो भवतीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२