अ॒ग्निरी॑शे बृह॒तः क्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः ।
दधा॑ति॒ रत्नं॑ विध॒ते यवि॑ष्ठो॒ व्या॑नु॒षङ्मर्त्या॑य स्व॒धावा॑न् ॥
अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । क्ष॒त्रिय॑स्य । अ॒ग्निः । वाज॑स्य । प॒र॒मस्य॑ । रा॒यः ।
दधा॑ति । रत्न॑म् । वि॒ध॒ते । यवि॑ष्ठः । वि । आ॒नु॒षक् । मर्त्या॑य । स्व॒धाऽवा॑न् ॥
उखासम्भरणियेष्टावग्नेः क्षत्रभृतोऽनुवाक्या । तथा च सूत्रितम् । अग्निरीशे बृहतः क्षत्रियस्यर्चामि ते सुमतिं घोष्यर्वाक् । आ. ४-१ ॥ इति ॥
अग्निर्बृहतो महतः क्षत्रियस्य बलस्येशे । ईश्वरो भवति । वर्तमानार्थे लिट् । किञ्च अग्निः परमस्योत्कृष्टस्य वाजस्यान्नस्य रायः पश्वादेर्धनस्य चेशे । यविष्थो युवतमः स्वधावानन्नवान् तेजस्वी वाग्निर्विधते । परिचरते । विधतिः परिचरनकर्मेति यास्कः । मर्त्याय मनुष्याय यजमानाय रत्नं रमणीयं धनमानुषक् अनुषक्तं वि दधाति । करोति ॥ ३ ॥