मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १२, ऋक् ५

संहिता

म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद्दे॒वाना॑मु॒त मर्त्या॑नाम् ।
मा ते॒ सखा॑य॒ः सद॒मिद्रि॑षाम॒ यच्छा॑ तो॒काय॒ तन॑याय॒ शं योः ॥

पदपाठः

म॒हः । चि॒त् । अ॒ग्ने॒ । एन॑सः । अ॒भीके॑ । ऊ॒र्वात् । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् ।
मा । ते॒ । सखा॑यः । सद॑म् । इत् । रि॒षा॒म॒ । यच्छ॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥

सायणभाष्यम्

हे अग्ने देवानामिन्द्रादीनामुत अपि च मर्त्यानां मनुष्याणामभिकेऽन्तिके । अभीक इत्त्यन्तिकनामैतत् । अस्माभिर्यत्पापं क्रुतं महश्चिन्महतोऽप्यूर्वाद्विस्तृतादस्मादेनसः पापात्ते त्वदीयाः सखायो मित्रभूताः स्तोतारो वयं सदमित्सर्वदैव मा रिषाम । मा हिंसिता भूम । हे अग्ने त्वं तोकाय पुत्राय तनयाय पौत्राय शं पापरूपोपद्रवाणां शान्तिं योः सुकृतोत्पादितं सुखं च यच्छ । देहि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२