मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १३, ऋक् १

संहिता

प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नां सु॒मना॑ रत्न॒धेय॑म् ।
या॒तम॑श्विना सु॒कृतो॑ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए॑ति ॥

पदपाठः

प्रति॑ । अ॒ग्निः । उ॒षसा॑म् । अग्र॑म् । अ॒ख्य॒त् । वि॒ऽभा॒ती॒नाम् । सु॒ऽमनाः॑ । र॒त्न॒ऽधेय॑म् ।
या॒तम् । अ॒श्वि॒ना॒ । सु॒ऽकृतः॑ । दु॒रो॒णम् । उत् । सूर्यः॑ । ज्योति॑षा । दे॒वः । ए॒ति॒ ॥

सायणभाष्यम्

प्रत्यग्निरिति पञ्चर्चं तृतीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयं तत्तन्मन्त्रवर्णाभिधेयोषः प्रभृति दैवतं वा । तथा चानुक्रान्तम् । प्रत्यग्निः पञ्चलिङ्गोक्त दैवतं त्वेक इति ॥ लैङ्गिको विनियोगः ॥

सुमनाः शोभमनस्कोऽग्निर्विभातीनां व्युच्छन्तीनामुषसामुषोदेवतानां रत्नधेयं रत्नधानम् । धनप्रकाशकमित्यर्थः । अग्रं प्रति पूर्वकालं ल्क्षीकृत्याख्यत् । प्रवृद्धो भवति । हे अश्विनाश्विनौ युवां सुकृतो यजमानस्य दुरोणं गृहम् । दुरोण इति ग्रुहनाम दुरोणे दुर्या इति गृहनामसु पाठात् । यातम् । गच्छतम् । सूर्य ऋत्विगादीनां प्रेरको देवो ज्योतिषा स्वेन तेजसोदेति । उषः काले प्रादुर्भवतीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३