मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १३, ऋक् २

संहिता

ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा॑ ।
अनु॑ व्र॒तं वरु॑णो यन्ति मि॒त्रो यत्सूर्यं॑ दि॒व्या॑रो॒हय॑न्ति ॥

पदपाठः

ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । द्र॒प्सम् । दवि॑ध्वत् । गो॒ऽइ॒षः । न । सत्वा॑ ।
अनु॑ । व्र॒तम् । वरु॑णः । य॒न्ति॒ । मि॒त्रः । यत् । सूर्य॑म् । दि॒वि । आ॒ऽरो॒हय॑न्ति ॥

सायणभाष्यम्

सविता प्रेरको देव ऊर्ध्वमुन्मुखं भानुमश्रेत् । आश्रयति । यद्यदा रश्मयः सूर्यं दिवि द्युलोक आरोहयन्ति । आरोहणं कारयन्ति । तदा वरुणो रात्र्यभिमानी देवो मित्रोऽहरभिमान्यने देवाश्च व्रतं तत्सम्बन्धि कर्मानुयन्ति । अनुगच्छन्ति । अनुगमने दृष्टान्त उच्यते । द्रप्सं पार्थिवं रजो दविध्वद्धुन्वन् । विकिरन्नित्यर्थः । गविषो गा इच्छन् सत्वा न वृषभ इव तद्वत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३