मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १३, ऋक् ४

संहिता

वहि॑ष्ठेभिर्वि॒हर॑न्यासि॒ तन्तु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ ।
दवि॑ध्वतो र॒श्मय॒ः सूर्य॑स्य॒ चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्व१॒॑न्तः ॥

पदपाठः

वहि॑ष्ठेभिः । वि॒ऽहर॑न् । या॒सि॒ । तन्तु॑म् । अ॒व॒ऽव्यय॑न् । असि॑तम् । दे॒व॒ । वस्म॑ ।
दवि॑ध्वतः । र॒श्मयः॑ । सूर्य॑स्य । चर्म॑ऽइव । अव॑ । अ॒धुः॒ । तमः॑ । अ॒प्ऽसु । अ॒न्तरिति॑ ॥

सायणभाष्यम्

हे देव द्योतमान सूर्य त्वं जगन्निर्वाहात्मकस्य रसस्यादानार्थं तन्तुं रश्मिसमूहं विहरन्विस्तारयन् असितं क्रुष्णवर्णं वस्म नक्तञ्चारानां निवासभूतां रात्रिमवव्ययन् अवाचीनं यथा भवति तथा संवृण्वन् । तिरस्कुर्वन्नित्यर्थः । वहिष्ठेभिर्वोढुमत्यन्तं शक्तैरश्वैर्यासि । गमनमार्गं गच्छसि । अस्यामृचि पूर्वार्धे सूर्यस्य प्रत्यक्षमर्थं प्रतिपाद्योत्तरार्धे परोक्षमर्थं प्रतिपादयितुमाह । दविध्वतो धुन्वानाः सूर्यर्स्य सम्बन्धिनो रश्मयः किरणा अप्स्वन्तरिक्षे । आप इत्यन्तरिक्षनाम आकाशमापः पृथिवीति तन्नामसु पाठात् । अन्तर्मध्ये चर्मेव चर्मवत्स्थितं तमोऽन्धकारमवाधुः । अवाचीनमदधुः । तिरस्कुर्वन्तीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३