मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १४, ऋक् २

संहिता

ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् ।
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ वि सूर्यो॑ र॒श्मिभि॒श्चेकि॑तानः ॥

पदपाठः

ऊ॒र्ध्वम् । के॒तुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । ज्योतिः॑ । विश्व॑स्मै । भुव॑नाय । कृ॒ण्वन् ।
आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । वि । सूर्यः॑ । र॒श्मिऽभिः॑ । चेकि॑तानः ॥

सायणभाष्यम्

विश्वस्मै सर्वस्मै भुवनाय लिकाय ज्योतिस्तेजः कृन्वन् कुवन् सविता प्रेरको देव ऊर्ध्वमुन्मुखं केतुं प्रकाशकं भानुमश्रेत् । आश्रयति । विचेकितानः सर्वं विशेशेण पश्यन् सूर्यो रश्मिभिः स्वकीयैः किरणैर्द्यावापृथिवी द्युलोकभूलोकौ चान्तरिक्षं चाप्राः । समन्तादपुरयत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४