मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १४, ऋक् ४

संहिता

आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हन्तु॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टौ ।
इ॒मे हि वां॑ मधु॒पेया॑य॒ सोमा॑ अ॒स्मिन्य॒ज्ञे वृ॑षणा मादयेथाम् ॥

पदपाठः

आ । वा॒म् । वहि॑ष्ठाः । इ॒ह । ते । व॒ह॒न्तु॒ । रथाः॑ । अश्वा॑सः । उ॒षसः॑ । विऽउ॑ष्टौ ।
इ॒मे । हि । वा॒म् । म॒धु॒ऽपेया॑य । सोमाः॑ । अ॒स्मिन् । य॒ज्ञे । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् ॥

सायणभाष्यम्

हे अश्विनाविह यज्ञे वशिष्ठा वोढृतमास्ते प्रसिद्धा रथा रंहणा गन्तारोऽश्वासोऽश्वा वां युवामुषस उषोदेवताया व्युष्टौ व्युच्छनकाल आ वहन्तु । समन्तान्नयन्तु । हि यस्मात्कारणात् हे वृषणा वृषनौ कामानां वर्षितारौ हे अश्विनाविमे सोमा वां युवां मधुपेयाय मधोः सोमस्य पानयास्मिन्यज्ञे मादयेथाम् । हर्षयेथां ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४