मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १५, ऋक् ३

संहिता

परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् ।
दध॒द्रत्ना॑नि दा॒शुषे॑ ॥

पदपाठः

परि॑ । वाज॑ऽपतिः । क॒विः । अ॒ग्निः । ह॒व्यानि॑ । अ॒क्र॒मी॒त् ।
दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥

सायणभाष्यम्

वाजपतिर्वाजानामन्नानां पतिः पालकः । परि वाजपतिः कविरित्येष हि वाजानां पतिः । ऐ. ब्रा. २-५ । इति ब्राह्मनम् । कविः क्रान्तदर्शी मेधावी वा दाशुषे हविर्दत्तवते यजमानाय रत्नानि रमणीयानि धनानि दधत् प्रयच्छन्नग्निर्हव्यानि हवींषि पर्यक्रमीत् । परितः क्रामति । व्याप्नोति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५