मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १५, ऋक् ४

संहिता

अ॒यं यः सृञ्ज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ ।
द्यु॒माँ अ॑मित्र॒दम्भ॑नः ॥

पदपाठः

अ॒यम् । यः । सृञ्ज॑ये । पु॒रः । दै॒व॒ऽवा॒ते । स॒म्ऽइ॒ध्यते॑ ।
द्यु॒ऽमान् । अ॒मि॒त्र॒ऽदम्भ॑नः ॥

सायणभाष्यम्

यः प्रसिद्धोऽयं प्रत्यक्शेणोपलभ्यमानोऽग्निर्दैववाते देववातस्य पुत्रे सृञ्जये । सृञ्जयो नाम कश्चित्सोमयाची । तस्मिन्निमित्तभूते सति तद्यागार्थमित्यर्थः । सृञ्जयस्य यष्टृत्वं तैत्तिरीया आमनन्ति । वासिष्ठो ह सात्यहव्यो देवभागं पप्रच्छ यत्सृ‘ज्जयान्बहुयाजिनोऽयीयजः । तै. स. ६-६-२-२ । इति । पुरः पुर्वस्यां दिशि स्थितायामुत्तरवेद्यां समिध्यते । सम्यग्दीप्यते । अमित्रदम्भनः शत्रूणां हिंसकः सोऽग्निर्द्युमान् दीप्तिमान् भवतीति शेषः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५