मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १५, ऋक् ६

संहिता

तमर्व॑न्तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशु॑म् ।
म॒र्मृ॒ज्यन्ते॑ दि॒वेदि॑वे ॥

पदपाठः

तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । अ॒रु॒षम् । न । दि॒वः । शिशु॑म् ।
म॒र्मृ॒ज्यन्ते॑ । दि॒वेऽदि॑वे ॥

सायणभाष्यम्

यजमाना अर्वन्तं न शीघ्रगामिनमश्वमिव सानसिं सम्भजनीयं दिवः शिशुं न द्युलोकस्य पुत्रभूतं सूर्यमिवारुषमारोचमानं तमग्निं दिवे दिवे प्रतिदिनं मर्मृज्यन्ते । भृशं परिचरणं कुर्वन्ति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६