मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १५, ऋक् ८

संहिता

उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात् ।
प्रय॑ता स॒द्य आ द॑दे ॥

पदपाठः

उ॒त । त्या । य॒ज॒ता । हरी॒ इति॑ । कु॒मा॒रात् । सा॒ह॒दे॒व्यात् ।
प्रऽय॑ता । स॒द्यः । आ । द॒दे॒ ॥

सायणभाष्यम्

उतापि च साहदेव्यात्सहदेवस्य पुत्रात्कुमारात्सोमकाद्राज्ञो यजता पूजनीयौ प्रयता प्रयतौ त्या त्यौ तौ प्रसिद्धौ हरी अश्वौ सद्यो ऋस्मिन्दिने तेनाहूतस्तस्मिन्नेव दिन आ ददे । आदत्तवानस्मि । मन्त्रद्रष्टा ऋषिर्बोधदित्यृग्द्वयेन कुमारमश्वेप्सयाभ्युपगम्याश्वावेतस्माल्लब्ध्वा प्रीतोऽभवदित्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६