मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १५, ऋक् १०

संहिता

तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यम् ।
दी॒र्घायु॑षं कृणोतन ॥

पदपाठः

तम् । यु॒वम् । दे॒वौ॒ । अ॒श्वि॒ना॒ । कु॒मा॒रम् । सा॒ह॒ऽदे॒व्यम् ।
दी॒र्घऽआ॑युषम् । कृ॒णो॒त॒न॒ ॥

सायणभाष्यम्

हे देवावश्विना द्योतमानावश्विनौ युवं युवां साहदेव्यं सहदेवस्य पुत्रं कुमारं सोमकाख्यं राजानं दीर्घायुशं शतायुश्कं कृणोतन । कुरुतम् । अनेन द्वृचेनास्य कुमारस्य दीर्घमायुरश्विनावृषिरयाचतेत्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६