मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् १

संहिता

आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रव॑न्त्वस्य॒ हर॑य॒ उप॑ नः ।
तस्मा॒ इदन्ध॑ः सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ॥

पदपाठः

आ । स॒त्यः । या॒तु॒ । म॒घऽवा॑न् । ऋ॒जी॒षी । द्रव॑न्तु । अ॒स्य॒ । हर॑यः । उप॑ । नः॒ ।
तस्मै॑ । इत् । अन्धः॑ । सु॒सु॒म॒ । सु॒ऽदक्ष॑म् । इ॒ह । अ॒भि॒ऽपि॒त्वम् । क॒र॒ते॒ । गृ॒णा॒नः ॥

सायणभाष्यम्

आ सत्यो यात्वित्येकविंशत्यृचं षष्ठं सूक्तं त्रैषुभमैन्द्रम् । आत्रेयमनुक्रमणिका । आसत्यः सैकैन्द्रमिति । तत्रैन्द्रमित्युक्तत्वादग्न्यधिकारो निवृत्त इत्यवगम्यते । चतुर्विंशेऽहनि माध्यन्दिनसवने मैत्रावरुणशस्त्र इदं द्वितीयमहीन सूक्तम् । तथा च सूत्रितम् । आ सत्यो यात्वित्यहीनसूक्तं द्वीतीयं मैत्रावरुणः । आ. ७-४ । इति । समूळ्हे दशरत्रे नवमेऽहनि निश्केवल्यशस्त्र इदं सूक्तम् । तथा च सूत्रितम् । आ सत्यो यात्वहं भुवं तत्त इन्द्रियमिति निष्केवल्यम् । आ. ८-७ । इति ॥

ऋजीषी । ऋजीषब्देन निष्पिष्टो विगतसारः सोमोऽभिधीयते । तद्वान् सत्यः सत्यवान्मघवान्धनवानिन्द्रो नोऽस्माकमुप समीप आ यातु । आगच्छतु । किञ्च अस्येन्द्रस्य हरयोऽश्वा नोऽस्माकमुप समीपे द्रवन्तु । आगच्छन्तु । वयं यजमाना इहास्मिन्यज्ञे तस्मा इन्द्राय सुदक्षं शोभनबलम् । सारोपेतमित्यर्थः । इदिदं प्रत्यक्षेणोपलभ्यमानमन्धोऽन्नरूपं सोमं सुषुम । अभिषुतं कुर्याम । गृणानोऽस्माभिः स्तूयमान इन्द्रोऽभिपित्वमस्मदभिमतप्राप्तिं करते करोतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७