मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् ३

संहिता

क॒विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न्वृषा॒ यत्सेकं॑ विपिपा॒नो अर्चा॑त् ।
दि॒व इ॒त्था जी॑जनत्स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गृ॒णन्त॑ः ॥

पदपाठः

क॒विः । न । नि॒ण्यम् । वि॒दथा॑नि । साध॑न् । वृषा॑ । यत् । सेक॑म् । वि॒ऽपि॒पा॒नः । अर्चा॑त् ।
दि॒वः । इ॒त्था । जी॒ज॒न॒त् । स॒प्त । का॒रून् । अह्ना॑ । चि॒त् । च॒क्रुः॒ । व॒युना॑ । गृ॒णन्तः॑ ॥

सायणभाष्यम्

कविर्मेधावी निण्यं न । निण्यमित्यन्तर्हितनामैतत् । अन्तर्हितं गूढमर्थमिव विदथानि वेदनीयानि कार्यजातानि साधन् साधयन् बृषा कामानां वर्षितेन्द्रो यद्यदा सेकं सेचनीयं सोमं विपिपानोऽथर्थं पिबन् अर्चात् विशेषेणार्चति । सोमपाने श्रद्धां करोतीत्यर्थः । तदानीं दिवोऽमुष्माल्लोकादित्था सत्यमेव सप्त सप्तसंख्याकान् कारून्रश्मीन् जीजनत् । अजीजनत् । जनयति । गृणन्तः स्तूयमाना रश्मयो वयुना वयुनानि मनुष्याणां ज्ञानान्यह्ना चित् दिवसेनापि चक्रुः । कृतवन्तः । ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७