मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् ५

संहिता

व॒व॒क्ष इन्द्रो॒ अमि॑तमृजी॒ष्यु१॒॑भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।
अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ॥

पदपाठः

व॒व॒क्षे । इन्द्रः॑ । अमि॑तम् । ऋ॒जी॒षी । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ।
अतः॑ । चि॒त् । अ॒स्य॒ । म॒हि॒मा । वि । रे॒चि॒ । अ॒भि । यः । विश्वा॑ । भुव॑ना । ब॒भूव॑ ॥

सायणभाष्यम्

ऋजीषी । ऋजीषशब्देन निष्पिष्टो विगतसारः सोमोऽभिधीयते । तद्वानिन्द्रः परमैश्वर्ययुक्तोऽमितमियत्तारहितं महिमानं ववक्षे । उवाह । किञ्च महित्वा महत्त्वेन स्वेन महिम्नोधे रोदसी उभे द्यावापृथिव्यावा पप्रौ । समन्तादपूरयत् । य निद्रो विध्वा भुवना सर्वाणि भुवनान्यभि बभूव । तिरश्चकार । अतश्चिदेभ्योऽपि विश्वेभ्यो भुवनेभ्योऽस्येन्द्रस्य महिमा वि रेचि । अतिरिरिचे । अधिको बभूवेत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७