मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् ६

संहिता

विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः ।
अश्मा॑नं चि॒द्ये बि॑भि॒दुर्वचो॑भिर्व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥

पदपाठः

विश्वा॑नि । श॒क्रः । नर्या॑णि । वि॒द्वान् । अ॒पः । रि॒रे॒च॒ । सखि॑ऽभिः । निऽका॑मैः ।
अश्मा॑नम् । चि॒त् । ये । बि॒भि॒दुः । वचः॑ऽभिः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रु॒रिति॑ वव्रुः ॥

सायणभाष्यम्

विश्वानि समस्तानि नर्याणि मनुष्याणां हितानि वृष्ट्यादीनि कार्याणि विद्वान् जानन् शक्रः समर्थ इन्द्रो निकामैर्निइकामयमानेभ्यः सखिभिर्मित्रभूतेभ्यो मरुद्भ्यः । व्यत्ययेन चतुर्थ्यर्थे तृतीया । आपो वृष्टिलक्षणान्युदकानि रिरेच । रिक्तीचकार । इन्द्रः सस्यादिफलसिद्ध्यर्थं मेघस्थान्युदकानि मरुद्भ्यो दत्तवानित्यर्थः । यद्वा । निकामैर्निकामयमानैः सखिभिर्मरुद्भिः सहितः सन् अपो नभसः सकाशात् । आप इत्यन्तरिक्षनामैतत् । अत्र विभक्ति व्यत्ययः । रिरेच । व्यतिरिक्तो बभूव । ये मरुतो वचोभिर्वाग्रूपैर्ध्वनिभिरश्मानं चित् पर्वतमपि मेघं वा । अश्मेति मेघनामैतत् । बिभिदुः । अभैत्सुः । उशिजः कामयमानास्ते मरुतो गोमन्तं गोभिरुपेतं वज्रमङ्गिरसां सम्बन्धि गोस्थानं वि वव्रुः । आच्छादयामासुः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८