मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् १०

संहिता

आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्स॑ः स॒ख्ये निका॑मः ।
स्वे योनौ॒ नि ष॑दतं॒ सरू॑पा॒ वि वां॑ चिकित्सदृत॒चिद्ध॒ नारी॑ ॥

पदपाठः

आ । द॒स्यु॒ऽघ्ना । मन॑सा । या॒हि॒ । अस्त॑म् । भुव॑त् । ते॒ । कुत्सः॑ । स॒ख्ये । निऽका॑मः ।
स्वे । योनौ॑ । नि । स॒द॒त॒म् । सऽरू॑पा । वि । वा॒म् । चि॒कि॒त्स॒त् । ऋ॒त॒ऽचित् । ह॒ । नारी॑ ॥

सायणभाष्यम्

अत्र काचिदाख्यायिका श्रूयते । कथम् । रुरुनामकः कश्चिद्राजर्षिः । तस्य पुत्रः कुत्साख्यो राजर्षिरासीत् । स च कदाचिच्छत्रुभिः सह युयुत्सुः सङ्ग्रामे स्वयमशक्तः सन् शत्रुणां हननार्थमिन्द्रस्याह्वानं चकार । स चेन्द्रः कुत्सस्य गृहमागत्य तस्य शत्रून् जघान । तदनन्तरमतिप्रीत्या तयोः सख्यमभवत् । सख्यानन्तरमिन्द्र एनमपि स्वकीयं गृहं प्रापयामास । तत्र शचीन्द्रं प्राप्तुमागता सती तौ समानरूपौ दृष्ट्वायमिन्द्रोऽयं कुत्स इति विवेकाभावेन संशयं चकारेति । अनयाख्यायिकया प्रतीयमानोऽर्थोऽत्र प्रतिपाद्यते । हे इन्द्र दस्युघ्नादस्यूनां शत्रूणां हन्त्रा मनसा युक्तस्त्वमस्तं कुत्सस्य गृहम् । अस्तमिति गृहनामैतत् । आ याहि । आगाः । लुङर्थे लोट् ॥ कुत्सश्च ते तव सम्बन्धिनि सख्ये निकामो नितरां कामयमानो भुवत् । अभवत् । ततस्तौ युवां स्वे योनौ स्वकीये स्थाने नि षदतम् । न्यसीदतम् । उपविष्टावभूतम् । ऋतचित्सत्यदर्शिनी नारीन्द्रस्य भार्या शची सरूपा समानरूपौ वांयुवां वि चिकित्सत् । संशयं चकार ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८