मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् ११

संहिता

यासि॒ कुत्से॑न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा॑नः ।
ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू॑षन्क॒विर्यदह॒न्पार्या॑य॒ भूषा॑त् ॥

पदपाठः

यासि॑ । कुत्से॑न । स॒ऽरथ॑म् । अ॒व॒स्युः । तो॒दः । वात॑स्य । हर्योः॑ । ईशा॑नः ।
ऋ॒ज्रा । वाज॑म् । न । गध्य॑म् । युयू॑षन् । क॒विः । यत् । अह॑न् । पार्या॑य । भूषा॑त् ॥

सायणभाष्यम्

हे इन्द्र अवस्युः कुत्सस्य रक्षणमिच्छन् । छन्दसि क्यच् परेच्छायामपि दृश्यते । तोदस्तोदकः शत्रूणां हिंसको वातस्य वायुसदृशयोर्वेगवतोर्हर्योरश्वयोरीशान ईश्वरस्त्वं कुत्सेन कुत्साख्येन राजर्षिणा सरथं समानरथं यासि । गच्छसि । गध्यं ग्राह्यम् । गध्यं गृण्हातेः । ऋज्रा वाजं न गध्यं युयूषन्नित्यपि निगमो भवतीति निरुक्तम् । ५-१५ । वाजं नान्नमिव ऋज्रा ऋजुगामिनावश्वौ युयूशन् स्वकीये रथे योजयन् कविः प्राज्ञः कुत्सो यद्यस्मिन्नहन्नहनि दिवसे पार्याय पारणाय आपन्निस्तरणाय भूशात् । प्रभवते । तस्मिन्नेव दिने कुत्सेन सरथं यासीति पूर्वेन सम्बन्धः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९