मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् १२

संहिता

कुत्सा॑य॒ शुष्ण॑म॒शुषं॒ नि ब॑र्हीः प्रपि॒त्वे अह्न॒ः कुय॑वं स॒हस्रा॑ ।
स॒द्यो दस्यू॒न्प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॑ ॥

पदपाठः

कुत्सा॑य । शुष्ण॑म् । अ॒शुष॑म् । नि । ब॒र्हीः॒ । प्र॒ऽपि॒त्वे । अह्नः॑ । कुय॑वम् । स॒हस्रा॑ ।
स॒द्यः । दस्यू॑न् । प्र । मृ॒ण॒ । कु॒त्स्येन॑ । प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ ॥

सायणभाष्यम्

शुष्णं पिप्रुमित्यस्यामृचि । ऋग्वे/ १-१-०-८ । प्रतिपादितोऽर्थः कुत्सायेत्यनेन ऋग्द्वयेन स्पष्टीक्रियते । हे इन्द्र त्वं कुत्साय कुत्सार्थमशुषम् । शूशमिति सुखनामैतत् । तद्रहितम् । अत्र दीर्घाभावः । शुष्णं शुष्णनामानमसुरं निबर्हीः । न्यबर्हीः । अवधीः । तथाह्नो दिवसस्य प्रपित्वे प्रक्रमे पूर्वाह्णे कुयवं कुयवनामानमसुरं च हतवानसि । तथा स त्वं सहस्रा सहस्रेण बहुभिः परिजनैः सह सद्यो य स्मिन् काले कुयवमवधीस्तस्मिन् काल एव कुत्स्येन । कुत्स इति वज्रनामैतत् । कुत्स एव कुत्स्यं वज्रम् । तेन दस्यून् शत्रून्प्र मृण । जहि । भूतार्थे लोट् । हतवानसि । तथा सूरः प्रेरकस्य सूर्यस्य चक्रमायुधमभीके समीपे सङ्ग्रामे वा प्र वृहतात् । प्रकर्षेण छिन्नवानसि ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९