मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् १३

संहिता

त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रन्धीः ।
प॒ञ्चा॒शत्कृ॒ष्णा नि व॑पः स॒हस्रात्कं॒ न पुरो॑ जरि॒मा वि द॑र्दः ॥

पदपाठः

त्वम् । पिप्रु॑म् । मृग॑यम् । शू॒शु॒ऽवांस॑म् । ऋ॒जिश्व॑ने । वै॒द॒थि॒नाय॑ । र॒न्धीः॒ ।
प॒ञ्चा॒शत् । कृ॒ष्णा । नि । व॒पः॒ । स॒हस्रा॑ । अत्क॑म् । न । पुरः॑ । ज॒रि॒मा । वि । द॒र्द॒रिति॑ दर्दः ॥

सायणभाष्यम्

हे इन्द्र त्वं पिप्रुं पिप्रुनामानमसुरं शूशुवांसं प्रवृद्धं मृगयं मृगयनामानमसुरं च हतवानसि । किञ्च स त्वं वैदथिनाय विदथिनः पुत्राय ऋजिश्विने ऋजिश्वनाम्ने राज्ञे रन्धीः । वशमनयः । पञ्चाशत्पञ्चाशत्संख्याकानि सहस्राणि कृष्णा कृष्णवर्णानि रक्षांसि न वपः । न्यवपः । अवधीः । तथा स त्वं जरिमा जरात्कं न वयोविशेषं रूपमिव पुरः शंबरस्य नगराणि वि दर्दः । विदारितवानसि ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९