मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् १४

संहिता

सूर॑ उपा॒के त॒न्वं१॒॑ दधा॑नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्प॑ः ।
मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ॥

पदपाठः

सूरः॑ । उ॒पा॒के । त॒न्व॑म् । दधा॑नः । वि । यत् । ते॒ । चेति॑ । अ॒मृत॑स्य । वर्पः॑ ।
मृ॒गः । न । ह॒स्ती । तवि॑षीम् । उ॒षा॒णः । सिं॒हः । न । भी॒मः । आयु॑धानि । बिभ्र॑त् ॥

सायणभाष्यम्

हे इन्द्र सूरः प्रेरकस्य सूर्यस्योपाके समीपे तन्वं त्वदीयं शरीरं यद्यदा दधानो धारकोऽभवः तदामृतस्य मरणरहितस्य ते त्वदीयं वर्पो रूपं वि चेति । व्यचेति । हे इन्द्र ज्ञातृभिर्विशेषेणाज्ञायत । सूर्यस्य समीपे सर्वाणि रूपाणि मलिनीभवन्ति न तथेन्द्रस्य रूपं किन्तु सूर्यस्य समीप इन्द्रस्य रूपं विशेषेण भासमानं बभोवेत्यर्थः । अपि च हे इन्द्र हस्ती मृगो न गज विशेशो मृग इव तविषीं परेषां बलमुषाणो दहन् आयुधानि वज्रादीनि शस्त्राणि बिभ्रद्बिभ्राणस्त्वं सिंहो न सिंह इव भीमो भयङ्ग्करोऽभूः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९