मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् १५

संहिता

इन्द्रं॒ कामा॑ वसू॒यन्तो॑ अग्म॒न्त्स्व॑र्मीळ्हे॒ न सव॑ने चका॒नाः ।
श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी॑व पु॒ष्टिः ॥

पदपाठः

इन्द्र॑म् । कामाः॑ । व॒सु॒ऽयन्तः॑ । अ॒ग्म॒न् । स्वः॑ऽमीळ्हे॑ । न । सव॑ने । च॒का॒नाः ।
श्र॒व॒स्यवः॑ । श॒श॒मा॒नासः॑ । उ॒क्थैः । ओकः॑ । न । र॒ण्वा । सु॒दृशी॑ऽइव । पु॒ष्टिः ॥

सायणभाष्यम्

कामा राक्शसादिभयनिवारणर्थमिन्द्रं कामयमाना वसूयन्तः पश्वादिधनमिच्छन्तः स्तोतात्र् इन्द्रं परमैश्वर्ययुक्तमग्मन् । गच्छन्ति । वर्तमानार्थे छान्दसो लुङ् । कीदृशाः स्तोतारः । स्वर्मीळ्हे न युद्ध इव सवने यज्ञे चकाना याचामानाः श्रवस्यवोऽन्नकामा उक्थैः स्तोत्रैः शशमानासः शंसमानाः स्तुवन्तः । तदा सोऽयमिन्द्र ओको न स्तोतॄणामावास इव भवति । रण्वा रमणीया सुदृशीव पुष्टिः शोभनदर्शना लक्ष्मीरिव भवति ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९