मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् १६

संहिता

तमिद्व॒ इन्द्रं॑ सु॒हवं॑ हुवेम॒ यस्ता च॒कार॒ नर्या॑ पु॒रूणि॑ ।
यो माव॑ते जरि॒त्रे गध्यं॑ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा॑धाः ॥

पदपाठः

तम् । इत् । वः॒ । इन्द्र॑म् । सु॒ऽहव॑म् । हु॒वे॒म॒ । यः । ता । च॒कार॑ । नर्या॑ । पु॒रूणि॑ ।
यः । माऽव॑ते । ज॒रि॒त्रे । गध्य॑म् । चि॒त् । म॒क्षु । वाज॑म् । भर॑ति । स्पा॒र्हऽरा॑धाः ॥

सायणभाष्यम्

य इन्द्रो नर्या नर्याणि मनुष्यहितानि पुरूणि बहूनि ता तानि प्रसिद्धानि कर्माणि चकार । अकरोत् । किञ्च स्वार्हराधाः स्पृहणीयधनो य इन्द्रो मावते मत्सदृशाय जरित्रे स्तोत्रे गध्यं चित् ग्राह्यं संयोजनीयमपि वाजमन्नं मक्शु शीघ्रं भरति । आहरति । वयं स्तोतारो हे यजमाना वो युष्मभ्यं तमित्तमेवेन्द्रं सुहवं शोभमाह्वानं यथा भवति तथा हुवेम । आह्वयामः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०