मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् १७

संहिता

ति॒ग्मा यद॒न्तर॒शनि॒ः पता॑ति॒ कस्मि॑ञ्चिच्छूर मुहु॒के जना॑नाम् ।
घो॒रा यद॑र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो॑ बोधि गो॒पाः ॥

पदपाठः

ति॒ग्मा । यत् । अ॒न्तः । अ॒शनिः॑ । पता॑ति । कस्मि॑न् । चि॒त् । शू॒र॒ । मु॒हु॒के । जना॑नाम् ।
घो॒रा । यत् । अ॒र्य॒ । सम्ऽऋ॑तिः । भवा॑ति । अध॑ । स्म॒ । नः॒ । त॒न्वः॑ । बो॒धि॒ । गो॒पाः ॥

सायणभाष्यम्

हे शूर विक्रान्तेन्द्र यद्यदा कस्मिंश्चित्सर्वस्मिन्नपि जनानां मनुष्याणां मुहुके मोहके युद्धेऽन्तरस्माकं मध्ये तिग्मा तीक्ष्णाशनिः पतति । पतेत् । हे अर्य स्वामिन्निन्द्र यद्यदास्माकं शत्रुभिः सह घोरा भीमरूपा समृतिर्युद्धं भवाति । भवेत् । अध तदानीं नोऽस्मदीयस्य तन्वः शरीरस्य गोपा रक्षको बोधिस्म । अबोधि । शत्रुभ्यः सकाशादस्मान्रक्षकत्वेन बुद्धवानसि खलु ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०