मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् १९

संहिता

ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ ।
द्यावो॒ न द्यु॒म्नैर॒भि सन्तो॑ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ॥

पदपाठः

ए॒भिः । नृऽभिः॑ । इ॒न्द्र॒ । त्वा॒युऽभिः॑ । त्वा॒ । म॒घव॑त्ऽभिः । म॒घ॒ऽव॒न् । विश्वे॑ । आ॒जौ ।
द्यावः॑ । न । द्यु॒म्नैः । अ॒भि । सन्तः॑ । अ॒र्यः । क्ष॒पः । म॒दे॒म॒ । श॒रदः॑ । च॒ । पू॒र्वीः ॥

सायणभाष्यम्

हे मघवन्धनवन्निन्द्र विश्वे विश्वस्मिन्नाजौ सङ्ग्रामे त्वायुभिः शत्रुजयार्थं त्वां कामयमानैर्मघवद्भिस्त्वदर्थं दीयमानहविर्लक्षणैर्धनैरुपेतैरेभिः प्रत्यक्षेणोपलभ्यमानैर्नृभिः पुत्रपौत्राद्यैः परिजनैः सहिता वयं यजमाना द्युम्नैर्धनैर्द्यावो न द्योतमानाः प्रकाशमाना धनिनो यथा तथार्योऽरीन् शत्रूनभि सन्तोऽभिभवन्तः क्षपः सर्वा रात्रीः पूर्वीर्बह्वीः शरदश्च संवत्सरांश्च मदेम । स्तवाम । यजमानाः सर्वेषु कालेषु स्तोत्रैरिन्द्रं हर्षयन्तीत्यर्थः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०