मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् २०

संहिता

ए॒वेदिन्द्रा॑य वृष॒भाय॒ वृष्णे॒ ब्रह्मा॑कर्म॒ भृग॑वो॒ न रथ॑म् ।
नू चि॒द्यथा॑ नः स॒ख्या वि॒योष॒दस॑न्न उ॒ग्रो॑ऽवि॒ता त॑नू॒पाः ॥

पदपाठः

ए॒व । इत् । इन्द्रा॑य । वृ॒ष॒भाय॑ । वृष्णे॑ । ब्रह्म॑ । अ॒क॒र्म॒ । भृग॑वः । न । रथ॑म् ।
नु । चि॒त् । यथा॑ । नः॒ । स॒ख्या । वि॒ऽयोष॑त् । अस॑त् । नः॒ । उ॒ग्रः । अ॒वि॒ता । त॒नू॒ऽपाः ॥

सायणभाष्यम्

यथेन्द्रो नोऽस्मदीयानि सख्या सख्यानि कर्माणि नू चित् वियोषत् न पृथक्कुर्यात् । उग्रस्तेजस्वी तनूपाः शरीराणां पालक इन्द्रो यथा नोऽस्थानविता रक्शितासत् । स्यात् । तथा वयं यजमाना एवेदेवमेवोक्तप्रकारेणेन्द्राय वृषब्याय कामानां वर्षित्रे वृष्णे नित्यतरुणाय ब्रह्म स्तोत्रमकर्म । अकुर्म । तत्र दृष्टान्तः । भृगवो दीप्तास्तक्षाणो रथं न रथमिव तद्वत् । यजमानेभ्यो यथेन्द्रोऽभीप्सितफलप्रदो भवति तथेन्द्रं यजमानाः स्तुवन्तीत्यर्थः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०