मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् १

संहिता

त्वं म॒हाँ इ॑न्द्र॒ तुभ्यं॑ ह॒ क्षा अनु॑ क्ष॒त्रं मं॒हना॑ मन्यत॒ द्यौः ।
त्वं वृ॒त्रं शव॑सा जघ॒न्वान्त्सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नान् ॥

पदपाठः

त्वम् । म॒हान् । इ॒न्द्र॒ । तुभ्य॑म् । ह॒ । क्षाः । अनु॑ । क्ष॒त्रम् । मं॒हना॑ । म॒न्य॒त॒ । द्यौः ।
त्वम् । वृ॒त्रम् । शव॑सा । ज॒घ॒न्वान् । सृ॒जः । सिन्धू॑न् । अहि॑ना । ज॒ग्र॒सा॒नान् ॥

सायणभाष्यम्

त्वं महाङ् इन्द्र तुभ्यमित्येकविंशत्यृचं सप्तमं सूक्तम् । आत्रेयमनुक्रमणिका । त्वं महाङ् असि क्न्योमेकपदेति । असिक्न्यां यजमानो न होतेत्येकपदा विराट् शिष्टा विंशतिस्त्रिष्टुभः । इन्द्रो देवता । समूळ्हे दशरात्रेऽश्टमेऽहनि निष्केवल्य इदं सूक्तं विनियुक्तम् । तथा च सूत्रितम् । त्वं महाङ् इन्द्र तुभ्यमिति निश्केवल्यम् । आ. ८-७ । इति । इन्द्रस्य वृत्रघ्नस्त्वं महाङ् इति पशुपुरोडाशस्यानुवाक्या । सूत्रितं च । त्वं महाङ् इन्द्र तुभ्यं ह क्षाः सत्राहणम् । आ. ३-८ । इति ॥

हे इन्द्र त्वं महान्प्रभूतो भवसि । क्षाः पृघिवी क्षा इति पृथिवीनामैतत् । मंहना महत्त्वेन युक्ता सती तुभ्यं ह त्वदर्थमेव क्षत्रं त्वदीयं बलमनु मन्यत । अन्वमन्यत । अनुमतीचकार । द्यौश्च त्वदर्थं बलमन्वमन्यत । हे इन्द्र त्वं शवसा त्वदीयेन बलेन वृत्रं लोकानामावरकं व्रुत्रनामकमसुरं जघन्वान् । हतवान् । किञ्च अहिना वृत्रेण जग्रसानान् जग्रहाणान् ग्रस्तान् । ग्रसतेर्लिटः कानजादेशः । सिन्धून् अपः सृजः । असृजः । सृष्टवानसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१