मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् २

संहिता

तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौ रेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः ।
ऋ॒घा॒यन्त॑ सु॒भ्व१॒॑ः पर्व॑तास॒ आर्द॒न्धन्वा॑नि स॒रय॑न्त॒ आपः॑ ॥

पदपाठः

तव॑ । त्वि॒षः । जनि॑मन् । रे॒ज॒त॒ । द्यौः । रेज॑त् । भूमिः॑ । भि॒यसा॑ । स्वस्य॑ । म॒न्योः ।
ऋ॒घा॒यन्त॑ । सु॒ऽभ्वः॑ । पर्व॑तासः । आर्द॑न् । धन्वा॑नि । स॒रय॑न्ते । आपः॑ ॥

सायणभाष्यम्

हे इन्द्र त्विषो दीप्यमानस्य तव त्वदीये जनिमन् जन्मनि सति द्यौरन्तरिक्षं स्वस्य त्वदीयान्मन्योः कोपात् । पञ्चम्यर्थे षष्ठी । भियसा जातभयेन रेजत । अरेजत् । अकम्पत । भूमिश्च रेजत् । कम्पमाना बभूव । स्वभ्वो महान्तः पर्वतासः । पर्वता मेघाः । ऋघायन्त । सस्यादीनां वृष्टि प्रदानार्थं नियामकेन त्वयाबाध्यन्त । तथा मेघा आर्दन् । प्राणिनां पिपासारूपां पीडामहिम्सन् । तथा मेघा धन्वान्युदकरहितान्देशानापोऽपः सरयन्ते । गमयन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१