मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् ३

संहिता

भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना॑विष्कृण्वा॒नः स॑हसा॒न ओजः॑ ।
वधी॑द्वृ॒त्रं वज्रे॑ण मन्दसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ॥

पदपाठः

भि॒नत् । गि॒रिम् । शव॑सा । वज्र॑म् । इ॒ष्णन् । आ॒विः॒ऽकृ॒ण्वा॒नः । स॒ह॒सा॒नः । ओजः॑ ।
वधी॑त् । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । सर॑न् । आपः॑ । जव॑सा । ह॒तऽवृ॑ष्णीः ॥

सायणभाष्यम्

सहसानः शत्रूणामभिभवन्नोजस्तेज आविष्कृण्वान आविष्कुर्वन्निन्द्रो वज्रमिष्णिन् वज्रं प्रेरयन् शवसा बलेन गिरिं पर्वतजातं भिनत् । अभिनत् । बिभेद । किञ्च मन्दसानः सोमेन मोदमान इन्द्रो वज्रेण वृत्रं वृत्रनामानमसुरं वधीत् । अवधीत् । जघान । तत आपो वृत्रेणावृतान्युदकानि हतवृष्णीः । हतो वृषा वृत्रो यासां ता हववृष्ण्यः । ता वृत्रवधानन्तरं निवारणरहिताः सत्यो जवसा वेगेन सरन् । असरन् । अगच्छन् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१