मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् ४

संहिता

सु॒वीर॑स्ते जनि॒ता म॑न्यत॒ द्यौरिन्द्र॑स्य क॒र्ता स्वप॑स्तमो भूत् ।
य ईं॑ ज॒जान॑ स्व॒र्यं॑ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ॥

पदपाठः

सु॒ऽवीरः॑ । ते॒ । ज॒नि॒ता । म॒न्य॒त॒ । द्यौः । इन्द्र॑स्य । क॒र्ता । स्वपः॑ऽतमः । भू॒त् ।
यः । ई॒म् । ज॒जान॑ । स्व॒र्य॑म् । सु॒ऽवज्र॑म् । अन॑पऽच्युतम् । सद॑सः । न । भूम॑ ॥

सायणभाष्यम्

हे इन्द्र यः प्रजापतिः स्वर्यमृत्विगादिभिः स्तुत्यं सुवज्रं शोभनवज्रोपेतं सदसः स्वकीयात्स्वर्गाख्यात्स्थानादनपच्युतं विनाशरहितं च । नेति समुच्चयार्थे । भूम भूम्ना महत्त्वेन युक्तमीमेनं त्वां जजान । अजीजनत् । जन जनन इति धातुः । र्द्यौद्योतमानस्ते तव जनिता जनयिता स प्रजापतिः सुवीरः शोभनपुत्रवानहमस्मीति मन्यत । अमन्यत । किञ्च इन्द्रस्य कर्तेन्द्रस्य जनयिता प्रजापतिः स्वपस्तमोऽत्यन्तं शोभनकर्माभूत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१