मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् ५

संहिता

य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्र॑ः ।
स॒त्यमे॑न॒मनु॒ विश्वे॑ मदन्ति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ॥

पदपाठः

यः । एकः॑ । इत् । च्य॒वय॑ति । प्र । भूम॑ । राजा॑ । कृ॒ष्टी॒नाम् । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।
स॒त्यम् । ए॒न॒म् । अनु॑ । विश्वे॑ । म॒द॒न्ति॒ । रा॒तिम् । दे॒वस्य॑ । गृ॒ण॒तः । म॒घोनः॑ ॥

सायणभाष्यम्

कृष्टीनां सर्वासां प्रजानां राजा प्रभुः पुरुहूतो बहुभिराहूत एक इद्देवानां मध्ये मुख्य एव य इन्द्रो भूम भूतं निष्पन्नं शत्रुभ्यो भयं प्रच्यावयति । प्रकर्षेण नाशयति । विश्वे सर्वे यजमाना मघोनो मघवतः । हविर्लक्शनधनवत इत्यर्थः । देवस्येन्द्रसमाश्रयात् द्योतमानस्य गृणतः स्तुवतो रातिं बन्धुमेनमिन्द्रमनु लक्षीकृत्य सत्यमेव मदन्ति । स्तुवन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१