मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् ६

संहिता

स॒त्रा सोमा॑ अभवन्नस्य॒ विश्वे॑ स॒त्रा मदा॑सो बृह॒तो मदि॑ष्ठाः ।
स॒त्राभ॑वो॒ वसु॑पति॒र्वसू॑नां॒ दत्रे॒ विश्वा॑ अधिथा इन्द्र कृ॒ष्टीः ॥

पदपाठः

स॒त्रा । सोमाः॑ । अ॒भ॒व॒न् । अ॒स्य॒ । विश्वे॑ । स॒त्रा । मदा॑सः । बृ॒ह॒तः । मदि॑ष्ठाः ।
स॒त्रा । अ॒भ॒वः॒ । वसु॑ऽपतिः । वसू॑नाम् । दत्रे॑ । विश्वाः॑ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ॥

सायणभाष्यम्

विश्वे सर्वे सोमा अस्येन्द्रस्य सत्रा । सत्रेति सत्यनामैतत् । सत्यमेव प्रभूता अभवन् । किञ्च मदासो मदा मदकराः सोमा बृहतो महतोऽस्येन्द्रस्य मदिष्ठा मादयितृतमाः सत्रा सत्यमेवाभवन् । हे इन्द्र त्वं वसुपतिर्धनपतिः । न केवलं धनपतिः किन्तु वसूनां सर्वेषां पश्वादीनां धनानां पतिः सत्रा सत्यमेवाभवः । भवसि । हे इन्द्र त्वं दत्रे धने निमित्तभूते सति विश्वाः सर्दाः कृष्टीः स्तोत्रीः प्रजा अधिथाः । धारयसि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२