मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् ७

संहिता

त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा॑ अधिथा इन्द्र कृ॒ष्टीः ।
त्वं प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण मघव॒न्वि वृ॑श्चः ॥

पदपाठः

त्वम् । अध॑ । प्र॒थ॒मम् । जाय॑मानः । अमे॑ । विश्वाः॑ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ।
त्वम् । प्रति॑ । प्र॒ऽवतः॑ । आ॒ऽशया॑नम् । अहि॑म् । वज्रे॑ण । म॒घ॒ऽव॒न् । वि । वृ॒श्चः॒ ॥

सायणभाष्यम्

अध अपि च प्रथममेव जायमानस्त्वममे वृत्रनिमित्ते भये सति विश्वाः सर्वाः कृष्टीः प्रजा अधिथाः । रक्षकत्वेन धारयसि । हे मघवन्धनवन्निन्द्र त्वं प्रति प्रवतः प्रति प्रवणानुदकवतो देशान् लक्षीकृत्याशयानमपां निरोधकमहिं वृत्रनामानमसुरं वज्रेण वि वृश्चः । व्यवृष्च । छिन्नवानसि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२