मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् ८

संहिता

स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिन्द्रं॑ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्र॑म् ।
हन्ता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता॑ म॒घानि॑ म॒घवा॑ सु॒राधा॑ः ॥

पदपाठः

स॒त्रा॒ऽहन॑न् । दधृ॑षिम् । तुम्र॑म् । इन्द्र॑म् । म॒हाम् । अ॒पा॒रम् । वृ॒ष॒भम् । सु॒ऽवज्र॑म् ।
हन्ता॑ । यः । वृ॒त्रम् । सनि॑ता । उ॒त । वाज॑म् । दाता॑ । म॒घानि॑ । म॒घऽवा॑ । सु॒ऽराधाः॑ ॥

सायणभाष्यम्

इन्द्रस्य वृत्रघ्नः पशौ सत्राहणमिति हविषोऽनुवाक्या । सूत्रितं च । सत्राहणं दाधृषिं तुम्रमिन्द्रं सहदानुं पुरुहूत क्शियन्तं ॥ आ. ३-८ । इति ॥

सत्राहणं बहूनां शत्रूणां हन्तारं दाधृषिमत्यन्तं धर्षकं तुम्रम् । तुमिः प्रेरणकर्मा । शत्रूणां प्रेरकं महां महान्तमपारमपरिमाणम् । विनाशरहितमित्यर्थः । वृषभं कामानां वर्षितारं सुवज्रं शोभनेन वज्रेणोपेतमिन्द्रम् । वयं स्तोतारः स्तुमेति शेषः । य इन्द्रो व्रुत्रं वृत्रनामानमसुरं हन्ता हिंसिता भवति । उतापि च य इन्द्रो वाजमन्नं सनिता दाता भवति । सुराधाः शोभनधनयुक्तो यो मघवेन्द्रो मघानि धनानि दाता भवति । तमिन्द्रं स्तुमिति पुर्वेणान्वयः । अत्र सर्वत्र तृनन्तत्वान्न लोकाव्ययेति षष्ठी प्रतिषेधे सति द्वितीयैव भवति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२