मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् ११

संहिता

समिन्द्रो॒ गा अ॑जय॒त्सं हिर॑ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः ।
ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता स॑म्भ॒रश्च॒ वस्व॑ः ॥

पदपाठः

सम् । इन्द्रः॑ । गाः । अ॒ज॒य॒त् । सम् । हिर॑ण्या । सम् । अ॒श्वि॒या । म॒घऽवा॑ । यः । ह॒ । पू॒र्वीः ।
ए॒भिः । नृऽभिः॑ । नृऽत॑मः । अ॒स्य॒ । शा॒कैः । रा॒यः । वि॒ऽभ॒क्ता । स॒म्ऽभ॒रः । च॒ । वस्वः॑ ॥

सायणभाष्यम्

यो ह यः खलु मघवा धनवानिन्द्रो गा असुराणां समजयत् । सम्यक् जितवान् भवति । किञ्च हिरण्या हिरण्यानि हिरतमणीयानि शत्रुसम्बन्धीनि धनानि समयत् । तथा अश्वियाश्वियानि शत्रुसम्बन्धिनोऽश्वसमूहान् सम्यक् जयति स्म । तथा पूर्वीर्बर्ह्वीः शत्रुसेनाः समजयत् । इन्द्रः सर्वान् शत्रून् जित्वा सकलमपि पश्वादिधनमपहृतवानित्यर्थः । शाकैः सामर्थ्यैर्नृतमो नेतृतमः पश्वादीनामतिशयेन निर्वाहकः स इन्द्र एभिर्नृभिर्नेतृभिः स्तोतृभिः स्तुतः सन् अस्य रायः पश्वादिरूपस्य धनस्य विभक्ता स्तोतृभ्यो विभागस्य कर्ता । दाता भवतीत्यर्थः । किञ्च वस्वो वसुनो धनस्य सम्भरश्च सम्भर्ता धारकश्च भवति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३