किय॑त्स्वि॒दिन्द्रो॒ अध्ये॑ति मा॒तुः किय॑त्पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ ।
यो अ॑स्य॒ शुष्मं॑ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ॥
किय॑त् । स्वि॒त् । इन्द्रः॑ । अधि॑ । ए॒ति॒ । मा॒तुः । किय॑त् । पि॒तुः । ज॒नि॒तुः । यः । ज॒जान॑ ।
यः । अ॒स्य॒ । शुष्म॑म् । मु॒हु॒कैः । इय॑र्ति । वातः॑ । न । जू॒तः । स्त॒नय॑त्ऽभिः । अ॒भ्रैः ॥
य इन्द्रो मातुर्जनन्याः सकाशात्कियत्स्विद्यावद्बलमध्येति । अधिगच्छति । पितुः सकाशात्कियद्यावद्बलमधिगच्छति । य इन्द्रो जनितुर्जयितुर्यस्मात्प्रजापतेः सकाशादिदं दृश्यमानं जगज्जजान । आजनयत् । य इन्द्रस्तस्मात्प्रजापतेः सकाशादस्य जगतः शुष्मं यावद्बलं मुहुकैर्मुहुर्मुहुरियर्ति । प्रेरयति । स्तनयद्भिर्गर्जद्भिरभ्रैर्मेघैर्जूतः प्रेरितो वातो न वायुरिव तथा स इन्द्रः स्तोतृभिर्जूतः प्रेरितो हविश्प्रदानार्थमाहूतो भवति ॥ १२ ॥