मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् १३

संहिता

क्षि॒यन्तं॑ त्व॒मक्षि॑यन्तं कृणो॒तीय॑र्ति रे॒णुं म॒घवा॑ स॒मोह॑म् ।
वि॒भ॒ञ्ज॒नुर॒शनि॑माँ इव॒ द्यौरु॒त स्तो॒तारं॑ म॒घवा॒ वसौ॑ धात् ॥

पदपाठः

क्षि॒यन्त॑म् । त्व॒म् । अक्षि॑यन्तम् । कृ॒णो॒ति॒ । इय॑र्ति । रे॒णुम् । म॒घऽवा॑ । स॒म्ऽओह॑म् ।
वि॒ऽभ॒ञ्ज॒नुः । अ॒शनि॑मान्ऽइव । द्यौः । उ॒त । स्तो॒तार॑म् । म॒घऽवा॑ । वसौ॑ । धा॒त् ॥

सायणभाष्यम्

मघवा धनवानिन्द्रः क्षियन्तं धनराहित्येन क्षीयमाणं त्वमेकं जनमक्षियन्तं धनेनाक्षीयमाणं कृणोति । करोति । अकिञ्चनः कश्चित्पुरुष इन्द्रं स्तुत्वा धनसमृद्धोऽभवदित्यर्थः । अशनिमानशनिना युक्तो द्यौरिवान्तरिक्शमिव विभञ्जनुः शत्रूणां विशेषेण भञ्जको मघवेन्द्रः समोहं समूढं रेणुं पापमियर्ति । स्तोतुः सकाशात्प्रेरयति । उतापि च मघवा धनवानिन्द्रः स्तोतारं वसौ धने धात् । अधात् । निदधाति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३