मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् १६

संहिता

ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः ।
ज॒नी॒यन्तो॑ जनि॒दामक्षि॑तोति॒मा च्या॑वयामोऽव॒ते न कोश॑म् ॥

पदपाठः

ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः॑ । वृष॑णम् । वा॒जय॑न्तः ।
ज॒नि॒ऽयन्तः॑ । ज॒नि॒ऽदाम् । अक्षि॑तऽऊतिम् । आ । च्य॒व॒या॒मः॒ । अ॒व॒ते । न । कोश॑म् ॥

सायणभाष्यम्

गव्यन्तो गा इच्छन्तोऽश्वायन्तोऽश्वानिच्छन्तो वाजयन्तो वाजमन्नमिच्छन्तो जनीयन्तो जायाश्चेच्छन्तो विप्रा मेधाविनः स्तोतारो वयं सख्यायेन्द्रसम्बन्धिने सखित्वाय वृषणं कामानां वर्षितारं जनिदां जायाप्रदमक्षितोतिमक्षीणरक्षम् । सर्वदा रक्षाकरमित्यर्थः । एवं भूतमिन्द्रमा च्यावयामः । आगमयामः । तत्र दृष्टान्तः । अवते कूपे । अवत इति कूपनाम अवतोऽवटः क्रिविरिति कूपनामसु पाठात् । कोशं न जलोद्धरणपात्रमिव । पुरुषा जलोद्धरणपात्रं जलेन पूरयितुं कूपे यथाच्यावयन्ति तथा वयमाच्यावयाम इत्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४